Samskrita Bharati @samskritbharati 06.11.2025 21:47 Скопировать Пожаловаться https://sanskrit.hindusthansamachar.in/Encyc/2025/11/6/Kumbh-of-culture-traditions-and-Sanskrit-held-in.php िन्दुस्थान समाचार कोयम्बटूरमहानगरमध्ये ७ तः ९ नवम्बरपर्यन्तं भविष्यति संस्कार–संस्कृति–संस्कृतस्य च महाकुम्भः कोयंबटूरम्, 06 नवंबरमासः (हि.स.)। कोयंबटूरनगरे शुक्रवासरे आरभ्यमाणम् ‘अखिलभारतीयम् अधिवेशनम् २०२५’ इदानीं भारतस्य आत्मा–आस्था–आचाराणां च अद्वितीयः संगमः भविष्यति। एषः महाकुम्भः स्यात् यत्र संस्कृतवाणी गुञ्जिता भविष्यति, भारतस्य शाश्वतसंस्कारः च प्रकाशिष्यते। एतत् त्रिदिवसीयम् अधिवेशनम् संस्कृतभारती-संस्थायाः आयोजनम् अस्ति, यत् ७ तः ९ नवम्बरपर्यन्तं कोयंबटूरनगरस्य अमृताविश्वविद्यापीठे, एट्टिमडईक्षेत्रे भव्यरूपेण भविष्यति। अस्मिन् अधिवेशने देशस्य सर्वतः आगता: संस्कृतप्रेमिणः, विद्वांसः, शिक्षाविदः, संस्कृतिसंरक्षकाः च भागं ग्रहिष्यन्ति। 1.4K
Обсуждение 0
Обсуждение не доступно в веб-версии. Чтобы написать комментарий, перейдите в приложение Telegram.
Обсудить в Telegram